धर्मविश्वरूपयोः दुहिता धर्मव्रता कौमार्ये एव तपसि निरता
आसीत्। ब्रह्ममानसपुत्रः मरीचिः तस्याः कठिनतपसा आकृष्टचित्तः तां परिणयत्। धर्मिष्ठा
सा भर्तरि एव परमात्मानं पश्यन्ती आध्यात्मकार्ये व्यापृतासीत्।
कदाचित् तस्यां पतिसेवायां तत्परायां तस्याः श्वशुरः
ब्रह्मदेवः आश्रमं समायातः। गृहिणीधर्मं स्मृत्वा धर्मव्रता तस्य स्वागतं चकार।
परन्तु तया कृतां सेवाच्युतिं असहमानः मरीचिः ’अश्मा भव’ इति तामशपत्।
शापवचनं श्रुत्वा खिन्ना धर्मव्रता पतिमब्रवीत् – ’हे नाथ!
ब्रह्मदेवः भवतः जनकः गुरुश्च। भवता सः सत्करणीयः आसीत्। भवतः सहधर्मचारिणी सती
अहं तत्कार्यमकरवम्। परन्तु भवान् विनाकारणं मां शप्तवान्। प्रतिशापं दातुं
सामर्थ्ये सत्यपि नाहं भवन्तं शपे यतः भवन्तं मम गुरुरिति अङ्गीकृतवती।’ इति।
धर्मव्रता स्वतपःशक्त्या शापम् अवरुध्य भगवन्तं
नारायणमुद्दिश्य तपः आरभत। प्रत्यक्षीभूतं महाविष्णुं मरीचिशापात् विमोचयितुं
प्रार्थयत। परं ऋषिशापनिवारणे अक्षमः देवः शिलारूपिण्यां तस्यां सकलदेवतानां
सान्निध्यम् अन्वगृह्णात्।
अद्यत्वे गयाक्षेत्रे पूज्यमाना शिला इयमेव इति अग्निपुराणे
उल्लिखितं वर्तते।
No comments:
Post a Comment