सौराष्ट्रस्य राजकन्या चूडाला
वेदशास्त्रपारङ्गता उपगतयोगसिद्धिश्च आसीत्। मालवनरेशं शिखिध्वजं ऊढ्वा संसारसुखम्
अनुभवन्ती आर्यपुत्रं आध्यात्मवर्त्मनि अनयत्। शिखिध्वजः
देहदण्डनात्मकतपश्चार्यादिषु श्रद्धावान् आसीत्।
सः एकस्यां निशीथिन्यां प्रासादं
परित्यज्य समीपस्थे वने तपः आरभत। तं गवेषयन्ती तत्रोपस्थिता चूडाला तं समाधिस्थितेः
बहिरानेतुं बहुधा प्रायतत। निष्फलयत्ना सा राजधानीं समागत्य राज्यसूत्रं
स्वहस्तगतमकरोत्।
राज्यं सुस्थितौ संस्थाप्य
तत्सूत्रं मन्त्रिणः हस्ते समर्प्य एकस्मिन्न्हनि यौगिकशक्त्या पुरुषरूपं धृत्वा शिखिध्वजान्तिकं
समाययौ।
तपोवने ध्याननिरतं भूपतिं सन्दृश्य
अवादीत् – ’हे महानुभाव! कुम्भनामकोऽहं मुनेः दूर्वाससः शापेन रजन्यां स्त्रीरूपं
प्राप्स्यामि। निर्गतिकस्य मम भवदाश्रमे आश्रयं प्रदाय कृपां करोतु’ इति।
स्त्रीपुरुषभेदभावं तीर्णवान् शिखिध्वजः कुम्भस्य निवेदनं पुरस्कृतवान्।
निशायां मदनिकानाम्ना रमणीयं
रमणीरूपं धृत्वा शिखिध्वजे कोमोद्रेकं जनयितुं प्रयत्नं चकार। परं बहुधा कृतेऽपि
प्रयत्ने शिखिध्वजः किञ्चिदपि विचलितो नाभूत्। तस्याः क्रियां नैव तिरस्कृतवान्।
निर्लिप्तभावेन पत्न्याः परीक्षामुत्तीर्णवान्।
कुम्भस्य मार्गदर्शने शिखिध्वजः
स्ववस्तून् एकैकशः अत्यजत्। आश्रमं, दण्डं, कमण्डलुं, आसनम् एवं स्वामित्वयुतं
सर्वं पर्यत्यजत्। तदा देहधारणं कृत्वापि जीवन्मुक्तिः कथं साधनीया इति चूडाला
तमशिक्षयत्। तां स्थितिं प्राप्तवन्तं भर्तारं राजधानीं प्रवेश्य कर्तव्ये
नियोजितवती।
उभावपि पद्मपत्रस्योपरि संस्थिताः
जलबिन्दव इव नैकवर्षपर्यन्तं राज्यं परिपाल्य परन्धाम ययतुः।
No comments:
Post a Comment