सनातनभारतस्य ब्रह्मवादिनीषु काचित् राक्षसी अपि आसीत्।
घोराकारायाः तस्याः नाम कर्कटी। तस्याः बुभुक्षा कदापि उपशाम्यति स्म। तस्मात्
स्वस्याः स्थूलदेहविषये जुगुप्सा समुत्पन्ना।
सा ब्रह्माणमुद्दिश्य तपः समाचरत्। ब्रह्मा तस्यै
सूक्ष्मशरीरमदात्। सा रोगाणुः अभवत्। कुमार्गे चलतां मानवानां शरीरं प्रविश्य
रुधिरं पीत्वा हन्तुमारभत। सज्जनेभ्यः पीडां नाजनयत्।
एतेनापि तस्याः मनः न समाधत्तम्। पुनः स्थूलशरीरापेक्षया
तपः अकरोत्। नैकेषां वर्षाणां तपसा तस्याः मनःपरिवर्तनं जातम्। भौतिकक्षुधा सह
आध्यात्मज्ञानक्षुदपि प्रवृद्धा। जीवनस्य, प्रपञ्चस्य च विषये विविधाः प्रश्नाः
मनसि प्रादुर्भूताः।
एकस्मिन् अहनि आहारसम्पादनार्थं विपिने विचरन्ती कर्कटी
द्वौ नरौ अपश्यत्। तौ खादितुं तदन्तिकम् उपासर्पत्। परन्तु घोररूपायाः राक्षस्याः तौ नाबिभीताम्। विस्मिता
दैत्या ’मम प्रश्नानां उत्तराणि दीयन्ते चेत्, युवां मोचयिष्य़ामि’ इत्यवदत्।
तौ तस्य राज्यस्य नृपमन्त्रिणौ आस्ताम्। राक्षस्याः
जिज्ञासा ताभ्यां प्रशमिता। परमात्मस्वरूपं ज्ञात्वा कर्कटी हर्षमवाप्नोत्। सा तौ
नमस्कृत्य अभणत् – ’भवन्तौ मम गुरुवरौ। मया गुरुदक्षिणा का दातव्या इत्युच्यताम्’
इति। नृप उवाच- ’अस्माकं देशं कश्चन रोगः पीडयति, तस्य परिहारार्थं भेषजान्वेषणाय
अवामत्र आगतौ’ इति। तच्छ्रुत्वा सा राक्षसी ताभ्यां न केवलम् औषधमूलिकाः अददात्,
अपि तु रोगनिवारणमन्त्रमपि उपादिशत्। तया उपदिष्टः मन्त्रः अथर्ववेदस्य भागः
वर्तते।
मन्त्रोपदेशं सम्प्राप्य राजा तां नमस्कृतवान्।
राजधानीमागत्य सत्कारं स्वीकर्तुं न्यवेदयत्। तस्य निवेदनं पुरस्कृत्य कर्कटी
नगरम् आगता। मरणदण्डनभाजः अपराधिनः तस्याः आहाराः समभवन्। तृप्ता राक्षसी गहनं
गत्वा तपः समाचरत्। यदा बुभुक्षा भवति राजधानीमागत्य राज्ञा रक्षितम् आहारम् उपभुङ्क्ष्य
गच्छति स्म। नैकवर्षपर्यन्तमेतत् प्राचलत्।
नरभक्षकराक्षस्यपि वेदद्रष्ट्रीति सम्मान्यते अस्माकं
संस्कृतौ।
No comments:
Post a Comment