चण्डनामा कश्चन भिल्लयुवकः
पाञ्चालनरेशस्य सिंहकेतोः आप्तः आसीत्। मृगयार्थं गमनवेलायां सहैव गमनेन तयोः स्नेहः अवर्धत। एकदा नृपेण समं कानने विचरणसमये चण्डः एकं
शिवलिङ्गम् अद्राक्षीत्। पूजनं विना विपिने पतितं अनाथं लिङ्गं दृष्ट्वा तस्य
हृदये विचित्रभावनाः समुत्पन्नाः। शिवलिङ्गं गृहं प्रति नीत्वा आराधयितुमिच्छन्
राज्ञः अनुमतिं प्रार्थयत। भूपतिः अङ्गीकृत्य पूजाविधिमपि उपादिशत्।
पत्यनुकूला चण्डपत्नी अपि शिवपूजने
श्रद्धावती आसीत्। उभावपि भक्त्या शिवाराधनमारभेताम्। चण्डः प्रतिदिनं चिताभस्म
आनीय समर्पयति स्म। पतिपत्न्यौ गायन्तौ नृत्यन्तौ भक्तिपारवश्येन लिङ्गमर्चतः स्म।
एकस्मिन् दिने बहुधा प्रयत्ने
कृतेऽपि पूजार्थं चिताभस्म न प्राप्तम्। दम्पती चिन्ताक्रान्तौ अभवताम्।
प्रदोषकाले चण्डः पूजामारभत। चण्डपत्नी दृढनिर्धारं कृतवती। सा स्वयं अग्नौ
पतित्वा दग्धा अभवत्। चण्डः भावोद्वेगेन पत्न्याः देहदहनेन प्राप्तं भस्म एव शिवाय
अर्पयित्वा अपूजयत्। पूजान्ते भाववशगः सः प्रतिदिनमिव पत्नीं नर्तनार्थं आह्वयत्।
अहो आश्चर्यम्! चण्डपत्नी यथाक्रमं नर्तनं कृतवती।
भवोपशमनानन्तरं वास्तवप्रपञ्चम्
आगतः चण्डः पत्नीं दृष्ट्वा विस्मितः जातः। उभावपि शङ्करस्य महिमानं कीर्तयन्तौ
आनन्दाश्रूणि अमुञ्चेताम्।
पत्न्याः बलिदानेन किरातोऽपि
शिवानुग्रहं प्राप्नोत्।
No comments:
Post a Comment