Sunday, March 28, 2021

इन्दुमती

 

रघुवंशमहाकाव्ये वर्णितेषु रमणीमणीषु इन्दुमती अन्यतमा। षष्ठे सर्गे कविना विदर्भराजसोदर्याः स्वयंवरस्य मनोहारि वर्णनमकारि।

इन्दुमत्याः सौन्दर्यम् अवर्णनीयमासीत्। ’तस्मिन् विधानातिशये विधातुः’ इति कवयति कविवरः। इन्दुमतिः सृष्टिकर्तुः विशिष्टा सृष्टिः इति तस्य भावः। तत्रैव कस्मिंश्चित् पद्ये ताम् ’आवर्तमनोज्ञनाभिः’ इति वर्णयति। अपरस्मिन् पद्ये ’रोचनागौरशरीरयष्टिः’ वर्णिता सा।

इन्दुमत्याः वर्णने सुवर्णरेखितमिदं पद्यम्-

सञ्चारिणीदीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।

नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥

राजसभायां वरणीयानां परिचयं प्राप्य अग्रे सरन्ती इन्दुमती सञ्चारिण्या दीपशिखया उपमिता कविवर्येण। अद्भुता खल्वियं प्रतिमा! इन्दुमत्याः मुखकान्तिः दीपशिखायाः कान्तिरिव प्रज्वला अवर्तत। तां परिणेतुं स्पृहमाणाः नृपात्मजाः यदा तया तिरस्कृताः अभूवन् तदा निराशाविष्टवदनाः समभवन् । राजमार्गे दीपशिखायाम् अग्रे गतायां यथा पृष्टतः स्थितानि भवनानि कृष्णच्छायान्वितानि भवन्ति तथैव वैदर्भ्या तिरस्कृताः भूपतयः विच्छायवदनाः सञ्जाताः इति वर्णयतः कवेः कल्पनाविलासः अन्यादृश एव। अनया रचनया कालिदासः ’दीपशिखा’ कालिदासः इति प्रख्यातो वरीवर्तते।

स्वयंवरमण्डपे यदा सा राघवस्य अजस्य पुरतः स्थित्वा सुनन्दया तद्विषये कथितं सर्वम् आकर्णयत्, तदा किं प्रवृत्तमिति कविः पद्यद्वयेन वर्णयति।

ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या।

दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव॥

सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम्।

रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्वा निराक्रामदरालकेश्याः॥

स्वस्याः लज्जां लघूकृत्य राजकुमारं दृष्टवत्यपि अपरक्षणे स्वाभिलाषं वक्तुकामा शालीनतया तूष्णीमतिष्ठत्। सुनन्दायाम् अग्रे व्रजामः इत्युक्तवत्यां इन्दुमती असूयाकुटिलं तां ददर्श इति वर्णयन् तस्याः मनसः द्वन्द्वभावं कविः अनुपमं चित्रितवान्। 

अजेन्दुमत्योः दाम्पत्यजीवनम् आनन्दसन्दोहसन्निविष्टमासीत्। प्रेमवर्षणे परिक्लिन्नयोः तयोः दशरथो नाम पुत्रोऽजायत। परन्तु अयमानन्दः दीर्घकालं नातिष्ठत्। आकाशमार्गे विचरतः नारदमहर्षेः महतीवीणायाः च्युता कुसुममाला पत्या सह विहरन्त्याः इन्दुमत्याः उपरि पतित्वा तस्याः प्राणानपाहरत्। 

अकाले प्रतिपन्नं प्रियावियोगम् असहमानः अजः महता दुःखेन विललाप। तया सार्धं यापितानि मधुरक्षणानि स्मरन् तस्याः गुणगानमकरोत्। तेन रुदता उक्तम् किञ्चित् वचनं इन्दुमत्याः व्यक्तित्वं सम्यक् परिचाययति।

गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ।

इन्दुमती सद्गृहिणी आसीत्। राजकार्येषु कौटुम्बिककर्मसु च कान्तासम्मिततया आवश्यकसूचनादानं कुर्वती सा सचिवकार्यमपि न्यर्वहत्। आन्तरङ्गिकभावनोद्घाटने सा प्रियसखी आसीत्। ललितकलाध्ययने प्रियशिष्या अवर्तत। 

कलमन्यभृतासु भाषितं कलहंसीषु मदालसं गतम्।

पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः॥

एतस्मिन् पद्ये स्वर्गं जिगमिषुः इन्दुमती अजस्य समाधानार्थं प्रकृतेः विविधेषु अङ्गेषु स्वस्य लास्यं निक्षिप्य अगच्छदिति कविः वर्णयति। कोकिलानां कूजने भाषणं, कलहंसीषु मन्दगमनं, हरिणीषु दृष्टिं, वायुना चलन्तीषु लतासु विलासचलनं च अजः पश्यति। परन्तु तैः स्वस्य व्यथानिवारणं न भवतीति सः विलपति।

बहुविधसौरभयुक्तं पुष्पं पुष्पदर्शनात् अकाल एव अनश्यत्।

हरिणी नाम अप्सराः तृणबिन्दोः तपोभङ्गार्थं स्वर्गाधिपतिना प्रेषिता आसीत्। मुनेः शापेन सा कथकैशिकवंशे इन्दुमतीनाम्ना मानवजन्म अप्राप। सुरपुष्पदर्शनेन तस्याः शापविमोचनं भवतीति तृणबिन्दुना निगदितमविद्यत। तदनुसारं नारदवीणाच्युतं नाकपुष्पं तस्याः शापविमोचनमकरोत्।

सूर्यवंशगुरुः वसिष्ठः वृत्तान्तमिदं शिष्यद्वारा अजं श्रावयित्वा तं समाश्वासितवान्।

कालिदासस्य स्त्रीपात्रेषु लालित्यसौन्दर्यसौकुमार्यादिगुणोपेता इन्दुमतीमूर्तिः सहृदयमनोहारिणी वर्तते । 

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...