Thursday, March 28, 2024

उत्तमव्यक्तित्वनिर्मात्री श्रीमद्भगवद्गीता

 व्यक्तित्वस्य व्यक्तेः च अविनाभावसम्बन्धः। उत्तमगुणोपेतः उत्तमः, निन्दनीयगुणोपेतः निन्दनीयश्च भवति समाजे। समाजे गौरवं, जीवने आनन्दञ्च प्राप्तुम् उत्तमव्यक्तित्वं सहकरोति।

अस्माकं सर्वेषां धर्मग्रन्थानाम् उद्देश्यमेव उत्तमव्यक्तिनिर्माणम्। तदनु उत्तमसमाजनिर्माणम्। उपनिषदां सारभूता श्रीमद्भगवद्गीता अपि एतत्कार्यं कर्तुं प्रवर्तिता अस्ति।

श्रीमद्भगवद्गीता श्रीकृष्णेन समूहाय न बोधिता । अपि तु अर्जुननामकाय एकस्मै पुरुषाय बोधिता। एकस्य नरस्य सम्भ्रान्तिं, अवकरसदृशान् दुर्गुणान् च उद्घाट्य तत्परिहारमार्गं दर्शयति इयं गीता। तत्स्थाने स्थिरा मतिः, सद्गुणाश्च कथम् आरोपणीयाः इत्यपि निर्दिशति।

ज्ञानमयप्रदीपस्य प्रज्वालकेन व्यासमहर्षिणा प्रथमे अध्याये यः अर्जुनः अस्माकं पुरतः उपस्थापितः सः अस्माकं व्यक्तित्वस्य प्रतिनिधिः एव अस्ति। तेन प्रदर्शितः सम्भ्रान्तचित्तता, शक्तिहीनता, निर्धारणे असामर्थ्यञ्च अस्माभिः अपि विभिन्नेषु सन्दर्भेषु अनुभूयते। तत्रापि उभावपि धर्मौ यदा ग्राह्यौ इति दृश्येते तदा सम्भ्रमः वर्धते। उत्तमव्यक्तित्वस्य असाधारणधर्मः विवेकशीलता। तदेव विलुप्य अस्मान् अन्धकारे पातयति ।

द्वितीये अध्याये गीताचार्यः गर्जति

क्लैब्यं मा स्म गमः पार्थ! नैतत्वय्युपपद्यते ।

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप! ॥ इति

हृदयदौर्बल्यमेव व्यक्तित्वस्य महान् कलङ्कः भवति। आत्मविश्वासः, धैर्यं, उत्साहः, एते सर्वे हृदयदौर्बल्येन नश्यन्ते। अतः उत्तमव्यक्तित्वनिर्माणाय हृदयदौर्बल्यस्य निवारणम् अनिवार्यम्।

व्यक्तित्वस्य नाशः कथं भवति इत्यपि भगवता चारुतया निरूपितम्।

ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।

सङ्गात् सञ्जायते कामः कामात्क्रोधोऽभिजायते ।

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः।

स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति॥

क्रमेण विषयध्यानं, सङ्गः, कामः, क्रोधः, सम्मोहः, स्मृतिविभ्रमः, बुद्धिनाशः अन्ते च व्यक्तित्वनाशः भवति। अतः विषयसुखस्य दास्यमेव व्यक्तित्वनाशस्य मूलकारणं भवति।

गुणत्रयं वर्णयन् गीताचार्यः सात्त्विकगुणाश्रयणेन कथं शुद्धव्यक्तित्वनिर्माणं भवतीत्यपि निर्दिशति।

अपरत्र अस्माकम् आत्मा एव अस्माकं बन्धुः, रिपुश्च भवति इति सम्यगेव उक्तं वासुदेवेन ।

यदा जीवने सम्भ्रान्तिः भवति तदा उत्तमचारित्र्यवान् नरः न मुह्यति। तमेव कृष्णः ’धीरः’ इति पदेन निर्दिशति।

भगवद्गीतायाः उद्देश्यमेव उत्तमव्यक्तिनिर्माणम्। सम्भ्रमे सत्यपि यः सम्भ्रान्तः न भवति, आपदि योग्यं निर्णयं स्वीकरोति, सः एव आदर्शः नरः भवति। राष्ट्रनिर्माणे तादृशप्रजानाम् आवश्यकता वर्तते। अतः उत्तमव्यक्तिनिर्माणद्वारा सुराष्ट्रनिर्माणं भगवद्गीतायाः परमं लक्ष्यम्।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...