Thursday, March 28, 2024

मालती मेम्

 असमराज्यं ईशान्यभारतस्य रमणीयं राज्यम्। तत्र षट्शताधिकवर्षेभ्यः अहोमवंशस्य शासनं प्रचलति स्म। परन्तु आङ्ग्लाः बर्मायुद्धसन्दर्भे असमराज्यमपि हस्तवशम् अकुर्वन्।

असमराज्ये चायसस्यस्य कृषिः प्रधानतया भवति। तत्कार्यं कुर्वाणाः अनेके आदिवासिसमूहाः तत्र वर्तन्ते। तत्र काचित् चिन्तनशीला सुशिक्षिता युवतिरासीत्। तस्याः नाम मोङ्ग्री ओरङ्ग इत्यासीत्। सा सर्वैः सगौरवं ’मालती मेम्’ इति सम्बुद्ध्यते स्म।

 असमराज्ये चायकृषिणा सार्धं अपीम् इत्याख्यस्य मादकद्रव्यस्य सस्यमपि उत्पाद्यते स्म। तत्तु महार्घं, प्रभूतधनदायी च आसीत्। अतः अनेके आदिवासिनः तस्य कृषौ आसक्ताः आसन्।

 ये अपीम् कृषिकार्ये निरताः ते तस्य सेवनमपि कृत्वा व्यसनिनः समभवन्। अपरत्र आङ्ग्लाः तस्य वाणिज्यं लाभदायकं मत्वा सम्पूर्णं व्यवहारं स्वहस्तगतं कर्तुं प्रयत्नान् आरभन्त। सर्वैः सर्वकारीयवाणिज्यकेन्द्रद्वारा एव तस्य वाणिज्यं करणीयमिति शासनम् आगतम्। जनाः रुष्टाः अभवन्। आन्दोलनम् आरब्धम्।

 मालती जनानां नेतृत्वमवहत्। आदिवासिनां स्वातन्त्र्यहरणं विरुद्ध्य महत् आन्दोलनं प्रवृत्तम्। सुशिक्षिता मालती अपीमसेवनस्य दुष्परिणामं जानाति स्म। अतः स्वबान्धवान् आन्दोलनार्थं प्रेरयन्ती एव मादकद्रव्यसेवनं त्यक्तुं तान् उद्बोधितवती। ’प्रियबान्धवाः! यद्यपि अस्माकम् उत्पादनस्य वाणिज्यम् अस्माकम् अधिकारः इति सत्यमस्ति, तथापि अस्माभिः एतादृशमादकद्रव्यस्य उत्पादनमेव सावकाशतया त्यक्तव्यम्। यतः अस्माकं तनु-मन-धनशक्तिम् एतद्व्यसनम् अपहरति। अस्मान् दुर्बलान् करोति। अस्माकमेव हितदृष्ट्या एतस्य उत्पादनम् अस्माभिः त्यक्तव्यम्। तेन आङ्ग्लानां वाणिज्यमपि नश्यति’ इति बहुधा जनान् अजागरयत्।

 आन्दोलनं तीव्रगतिं प्राप्नोत्। मालती आङ्ग्लानां वाणिज्यकेन्द्रं गत्वा सङ्ग्रामं कर्तुं निश्चयं कृतवती। तस्याः सख्यः ताम् अवरुद्धवत्यः । परन्तु मालती ताः धिक्कृत्य वाणिज्यकेन्द्रं प्राविशत्।

 आन्दोलनस्य तीव्रस्वरूपं दृष्ट्वा आरक्षकाः गोलिकावर्षणमारब्धवन्तः। दुर्दैवात् मालती मेम् गोलिकाघातैः मरणम् अवाप्नोत्।

 आदिवासिनाम् अधिकाराय, तेषां जागरणाय च कटिबद्धा मालती स्वातन्त्र्याग्नौ स्वप्राणसमिधः समार्पयत्।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...