Thursday, March 28, 2024

झलकारी

 ’आगच्छ वत्से! अहं त्वां किमपि विशिष्टं शिक्षयामि” इति प्रेम्णा आह्वयत् झलकार्याः पिता सदोवरसिंहः। बाल्ये एव मातुः मरणकारणात् पाककार्ये निरता बालिका झलकारी उत्साहेन कूर्दनं कुर्वती पितरम् अनुसृतवती। पिता तस्याः हस्ते खड्गमेकं दत्त्वा ’सम्यक् धर’ इति आदिशत्। पिता युद्धविद्यां शिक्षयति इति ज्ञात्वा तस्याः नेत्रे प्रफुल्लिते जाते। 

खड्गचालनम्, दण्डप्रहारः, शरप्रयोगः, अश्वारोहणम् इत्यादिषु युद्धविद्यासु शीघ्रमेव नैपुण्यं प्राप्तवती झलकारी। 

स्वस्मिन् द्वादशे वयसि एकदा काष्ठाहरणार्थं अरण्यं गतवती। तदा अकस्मात् कश्चन क्रूरः वृकः तस्याः उपरि आक्रमणम् अकरोत्। स्वहस्तस्थितेन परशुना एव तं वृकं सा अमारयत्। अपरेद्यवि पार्श्वगृहं समागतान् चोरान् दण्डप्रहारेण विषण्णान् अकरोत्। तस्याः शौर्यसमाचारः ग्रामान्तरेषु अपि प्रसृतः। 

झांसीराज्ञ्याः सैनिकेषु अन्यतमः पूरणः तस्याः वीरतया प्रभावितः तां परिणीतवान्। समानमनस्कौ तौ सुखजीवनं यापितवन्तौ। 

एकस्मिन् महाशिवरात्र्याः शुभदिने पूरणः झलकारीं राज्ञ्याः लक्ष्मीबाय्याः दर्शनार्थम् अनयत्। प्रथमदर्शने एव तस्याः वीरभङ्गी राज्ञीम् आकर्षत्। राज्ञ्याः रूपेण झलकार्याः रूपसाम्यम् आसीत्। अचिरादेव ते परस्परं स्नेहेन बद्धे। झलकारी नैकेषु युद्धप्रसङ्गेषु सैन्यस्य नेतृत्वम् ऊढ्वा शौर्येण अयुद्ध्यत। 

डालहौसी इत्यनेन आनीतं दत्तकपुत्रशासनम् झांसीराज्यस्य आक्रोशाय कारणम् अभवत्। राज्ञी शासनं विरुद्ध्य युद्धघोषणम् अकरोत्। सर्वेऽपि वीरसैनिकाः युद्धार्थं सज्जाः अभवन्। तदा एव प्रथमस्वातन्त्र्यसङ्ग्रामस्य रणघोषः अभवत्त्। ह्यूग् रोस् नामकः आङ्ग्लसेनापतिः झांसीम् आक्रमत्। कस्यचित् सैनिकस्य वञ्चनेन आङ्ग्लाः दुर्गे प्रवेशं प्राप्तवन्तः। 

राज्ञ्याः प्राणरक्षणार्थं झलकारी कञ्चन उपायम् अकरोत्। स्वयं राज्ञ्याः वेषं धृत्वा राज्ञीं प्रदेशान्तरं प्रेषितवती। सम्भ्रान्ताः आङ्ग्लाः तां गृहीतवन्तः। ते ताम् अभिज्ञाय तस्याः शौर्यं प्रशंसन्तः अवदन् - ’यदि भारतस्य एकप्रतिशतमहिलाः एतादृश्यः भवन्ति तर्हि अस्माभिः भारतं त्यक्त्वा गन्तव्यं भवति’ इति। 

तेषां बन्धनात् उपायेन पलायित्वा झलकारी अपरदिने पुनः युद्धम् आरब्धवती। तस्याः पतिः पूरणः वीरावेशेन युद्धं कृत्वा वीरगतिं प्राप्तवान्। वार्तां श्रुतवत्याः झलकार्याः वीरता इतोऽपि प्रज्ज्वला अभवत्। सा आङ्ग्लसैन्यस्य महतीं हानिं कृतवती। 

झांस्याः सैन्यं क्षीणम् अभवत्। अवशिष्टान् बहुसङ्ख्याकाः आङ्ग्लाः परिसमूह्य अहिंसन्। तेषां गोलिकाः झलकार्याः देहमपि छिद्रितम् अकुर्वन्। अन्यदेकं प्रफुल्लं सुवासितं कुसुमं भारतमातुः चरणयोः अपतत्।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...