Saturday, August 6, 2022

राज्ञी गायडिन् लू

एतस्याः नामश्रवणेन आङ्ग्लमहिला वा इति प्रभासः भवति। एषा तु ईशान्यभारतस्य नागाल्याण्डराज्यस्य आध्यात्मराजकीयक्षेत्रयोः नायिका आसीत्। ईशान्यराज्येषु आङ्ग्लशासनं विरुद्ध्य सङ्ग्रामस्य नेतृत्वम् ऊढवती।


२६ जनेवरी १९१५ दिनाङ्के मणिपुरस्य समीपस्थे नङ्गकांव ग्रामे जन्म प्राप्तवती। तस्याः मार्गदर्शकाय जादोनागवर्याय आङ्ग्लसर्वकारेण मरणदण्डनं दत्तम्। तदनन्तरं नागाजनानां नेतृत्वं कर्तुं कोऽपि समर्थः नायकः नासीत्। १३ वर्षीया गायदिन्लू तेषां नायिका अभवत्। 


सा गान्धीमहोदयस्य करनिराकरणसत्याग्रहे भागम् ऊढ्वा जनानां सङ्घटनम् अकरोत्। तस्याः समीपे चतुःसहस्रं सैनिकाः आसन्। तैः सह सा आत्मानं गोपयित्वा झटिति आङ्ग्लानाम् उपरि आक्रमणं करोति स्म। 


सशस्त्रयुद्धे सा निष्णाता आसीत्। तस्याः पराक्रमं दृष्ट्वा जनाः तां ’राज्ञी’ इति सम्बोधयन्ति स्म। अनेके आङ्ग्लसैनिकाः तया मारिताः। आङ्ग्लाः तस्याः ग्रहणे सफलाः न अभवन्। तस्याः ग्रहणार्थं पुरस्कारोऽपि घोषितः।


१७ अक्टोबर १९३२ दिनाङ्के आङ्ग्लाः बहुप्रयासेन तस्याः ग्रहणे सफलाः अभवन्। तदा तस्याः वयः केवलं १७ वर्षाणि। केवलं वर्षचतुष्टये तया कृतः सङ्ग्रामः अत्युग्रः आसीत्। दशमासान् यावत् न्यायास्थाने तस्याः विषये वादविवादः जातः। मिथ्यापराधं तस्याः शिरसि संस्थाप्य आजीवनकारागृहवासः विधत्तः। 


१९४७ वर्षे स्वतन्त्रताप्राप्त्यनन्तरमेव तस्याः बन्धविमोचनं जातम्। १९८२  तमे वर्षे पद्मभूषणपुरस्कारेण सा सम्मानिता।


नागाजनेषु स्वसंस्कृतिविषये धर्मविषयेऽपि जागरणं एतया कृतम्। आङ्ग्लजनैः क्रियमाणं धर्मान्तरणं विरुद्ध्य अपि तया आन्दोलनं कृतम्। ’स्वसंस्कृतिविस्मरणं नाम आत्मविस्मरणम्’ इति तया प्रतिपादितम्।


१७ फेब्रुवरी १९९३ दिनाङ्के एषा दिवं प्रयाता।


No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...