Saturday, August 6, 2022

क्रान्तिसिंहः वाञ्चिनाथन् अय्यर

वाञ्चिनाथन् अय्यर तमिलुनाडुराज्यस्य क्रान्तिकारी राष्ट्रभक्तः आसीत्। सर्वैः 'वञ्चि' इति व्यवह्रियमाणः एषः तिरुनल्वेलीजनपदस्य सेङ्गोत्तै इत्यस्मिन् ग्रामे जनिम् अलभत। 

ग्रामे एव प्राथमिकशिक्षणं सम्प्राप्य तिरुवनन्तपुरमहाविद्यालयतः स्नातकोत्तरपदवीं सम्प्राप्तवान्। अध्ययनसमये एव विवाहः अपि अभवत्। किञ्चित् कालं यावत् सर्वकारीयोद्योगमपि समाचरत्। 

तत्समीपे चिदम्वरं पिल्लै स्वदेशीनौसंस्थां संस्थाप्य नौकायानक्षेत्रे आङ्ग्लप्राबल्यं नाशितवान्। नीलकण्ठब्रह्मचारी महोदयः भारतमाता असोसियेशन द्वारा सशस्त्रक्रान्तये यूनां सज्जतां कारयन् अवर्तत। द्वाभ्यां प्रेरणां सम्प्राप्य वाञ्चिनाथन् स्वतन्त्रतासङ्ग्रामं प्राविशत्। 

१९१० तमे वर्षे प्यारिसतः आगतः वि वि एस् अय्यर नामकः युवकः गोलिकाप्रहारे यूनां प्रशिक्षणम् आरब्धवान्। वाञ्चिनाथन तेन प्रशिक्षितः। 

तत्समये तिरुनल्वेली-अधिकारिणा रॉबर्ट आश इत्यनेन स्थानीयोद्यमानां पिधानार्थं आङ्ग्लपदार्थानां विक्रयणार्थं शासनानि अकरोत्। चिदम्बरं पिल्लै महोदयं बद्ध्वा तस्य संस्थायाः नाशम् अकरोत्।

तमिलनाडु क्षेत्रस्य राष्ट्रभक्ताः अधिकारिणः दौर्जन्यम् असहमानाः आन्दोलनम् आरब्धवन्तः। १९११ जून १७ दिनाङ्के रॉबर्ट आश रेलयानेन कुत्रचित् गच्छन् अविद्यत। सहसा तस्य यानमारुह्य वाञ्चिनाथन् गोलिकया तं भालपट्टे मारयित्वा सधैर्यं अवातरत्। आङ्ग्लानां चित्रहिंसापात्रः भवितुं नेच्छन् सः शौचालयं गत्वा तत्र आत्मानं गोलिकया अमारयत्।

तस्य शवस्य समीपे प्राप्ते पत्रे एवं लिखितम् आसीत्- 

"भारतस्य शत्रून् आङ्ग्लछनान् भारतात् उच्चाटयित्वा स्वराज्यस्थापनाय सनातनधर्मस्य रक्षणाय च प्रत्येकं भारतीयोपि यतमानो वर्तते। तदर्थं त्रिसहस्राधिकजनैः प्रतिज्ञा कृता वर्तते। तत्ज्ञापयितुमेव मया एतत् कार्यं कृतम्। एतत् प्रत्येकं भारतीयस्य आद्यं कर्तव्यम्।" 

आङ्गलसर्वकारः एतया घटनया तीव्राघातमनुभूतवान्। देशप्रेमिणः तेषां दौर्जन्यस्य सम्यक् प्रतीकारम् अकुर्वन्।

स्वातंत्र्यप्राप्त्यनन्तरं तत् रेलस्थानकं यत्र आश् इत्यस्य वधः अभवत्, वाञ्चिनाथन् स्थानमिति नाम प्राप्तवत्।


No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...