Saturday, August 6, 2022

वीरनारी भोगेश्वरी

असमराज्ये नागांवजनपदे १८७२तमे वर्षे जाता भोगेश्वरी फुकनानि अपि कनकलता इव ध्वजस्य मानरक्षणार्थं स्वप्राणान् अर्पितवती वीरमहिला । तयोर्मध्ये अयमेव भेदः आसीत् - कनकलता सप्तदशवर्षीया तरुणी आसीत्, भोगेश्वरी सप्ततिवर्षीया वृद्धा आसीत् । भोगेश्वरी अष्टपुत्राणां जननी भूत्वाऽपि तेषां पालनपोषणे व्यग्रा चेदपि भारतस्य स्वतन्त्रतासङ्ग्रामे आत्मनः भूरि योगदानम् अददात्। 


अनेकेषु क्षेत्रेषु भारतीय-राष्ट्रिय-काङ्गेस् दलस्य कार्यालयस्थापने तस्याः महत्त्वपूर्णं योगदानमासीत् । १९३० वर्षे प्रवृत्ते नागरिक-अविधेयतान्दोलने सक्रियं पात्रमवहत् । अनेकेषु अहिंसा-आन्दोलनेषु तस्याः नेतृत्वमासीत्। 


१९४२ वर्षे ’भारतं परित्यजत’ इत्यान्दोलनं तीव्रगत्या प्राचलत्। तदा आङ्ग्ल-अधिकारिभिः बहुषु स्थानेषु कांग्रेस् कार्यालयः तालबद्धः कृतः। यदा बरहामपुरस्य कार्यालयः पिध्हितः तदा तद्विरुद्ध्य प्रतिरोधरताः यशस्वितया कार्यालयस्य मुक्तिं कृतवन्तः। परन्तु आङ्ग्लानां महत् सैन्यमेकं आन्दोलनकर्तॄन् नाशयितुं कार्यालयं नाशयितुं वा तत्र प्रेषितम्। २० सप्टेम्बर् १९४२ दिनाङ्के कार्यालयमुक्तिम् सन्तोषेण उत्सवीकृतवताम् उपरि आङ्ग्ल सैनिकाः आक्रमणम् अकुर्वन् । 


पार्श्वग्रामेभ्यः आगतैः शताधिकैः राष्ट्रभक्तैः सह भोगेश्वरी राष्ट्रधवजं गृहीत्वा वन्देमातरम् घोषणं कुर्वती कार्यक्रमे उत्साहेन भागमगृहीत्। तत्र सैन्येन सह आगतः आङ्ग्लसेनाधिकारी  फिञ्च् नामकः भोगेश्वर्याः सख्याः रत्नमाला नामिकायाः हस्तात् राष्ट्रध्वजं कर्षितवान्। राष्ट्रध्वजस्य अपमाननम् असहन्ती भोगेश्वरी स्वध्वजदण्डेन तम् अताडयत्। कुपितः सेनाधिकारी गोलिकास्त्रेण तां निर्दयतया अमारयत्। सप्ततिवर्षीया भोगेश्वरी पञ्चभूतेषु लीना अभवत्।


नागांव ग्रामे स्थितः कश्चन सार्वजनिकचिकित्सालयः, गुवाहटीनगरे स्थितम् अन्तस्थक्रीडाङ्गणं च भोगेश्वर्याः नाम्ना व्यवह्रियेते।


No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...