Saturday, August 6, 2022

वीरतरुणीमणिः कनकलता बरुवा

 राष्ट्रध्वजः, राष्ट्रगीतं, मानचित्रम्, वन्दे मातरम् एतानि न केवलं जडसङ्केतवस्तूनि अपि तु राष्ट्रभावोद्दीपनस्फुलिङ्गानि। तस्य गौरवरक्षणम् अस्माकं कर्तव्यम्। स्वतन्त्रतायाः आन्दोलने एतैः सङ्केतैः कृतं भावजागरणं अवर्णनीयम्। एतेषां मानरक्षणार्थं बहुभिः प्राणार्पणमपि कृतम्। तेषु अन्यतमा तरुणी कनकलता बरुवा।


कनकलता असमराज्यस्य बोरङ्गबरी ग्रामे २२ डिसेम्बर १९२४ दिनाङ्के जन्म प्राप्तवती। तस्याः पञ्चमे वर्षे माता कामेश्वरी दिवं याता। त्रयोदशवर्षवयसि पिता पञ्चत्वं गतः। 

१९४२ तमे वर्षे ’भारतं परित्यजत’ इत्यान्दोलनम् उच्छ्रायस्थितौ आसीत् । असमराज्यम् अपि अग्निकुण्डः इव प्रज्वलति स्म । सहस्राधिकाः जनाः आन्दोलने भागम् अवहन् ।

सप्टेम्बर २० दिनाङ्के असमराज्यस्य गोहपुर-आरक्षककेन्द्रस्य उपरि राष्ट्रध्वजं संस्थापयितुं सङ्ग्रामनिरतैः निर्धारः कृतः। सप्तदशवर्षीया कनकलता महतः समूहस्य अग्रणीः भूत्वा हस्ते त्रिवर्णध्वजं गृहीत्वा धावन्ती आसीत्। सा देशप्रेमिणां मृत्युवाहिनी इति गणस्य सदस्या आसीत्। आरक्षकाः गोलिकावर्षणम् अकुर्वन्। परन्तु राष्ट्रभक्ताः अभिधावन्तः एव आसन्। कनकलता गोलिकाप्रहारेण अधः पतिता। तथापि ध्वजं अधः न अपातयत्। तीव्रवेदनाग्रस्ता अपि ध्वजदण्डं ऋजु गृहीतवती। यदा मुकुन्दकाकती नामकः तरुणः आगत्य  ध्वजं गृहीतवान् तदा समाधत्ता कनकलता स्वप्राणान् अत्यजत्। अग्रे मुकुन्दकाकती अपि स्वप्राणान् अर्पयत्। परन्तु आन्दोलनकाराः राष्ट्रध्वजारोहणे यशस्विनः अभवन् ।

बलिदानसमये तस्याः वयः १७ वर्षाणि। कनीयसि वयसि एव राष्ट्रभक्तिं स्वधमनिषु वाहयन्ती कनकलता अद्यापि यूनां प्रेरणास्थानं वर्तते। तस्याः अन्तिमभाषणं तु रोमहर्षणं जनयति।

१९९७ वर्षे भारतसर्वकारेण एकस्याः रक्षणनौकायाः कनकलता इति नामकरणं कृत्वा वीरतरुण्यै गौरवं समर्पितम् । अनेके ग्रन्थाः तस्याः वीरगाथां स्तुवन्ति। असमी-हिन्दीभाषयोः तस्याः जीवनचरितमाश्रित्य चित्रपटोऽपि निर्मितः। २०११ वर्षे तस्याः विग्रहः अपि गौरीपुरे संस्थापितः। तेजपुरे कनकलता-उद्याने तस्याः जीवनचरित्रस्य शिल्पमपि द्रष्टुं शक्नुमः। एवं सत्यपि तस्याः चरितं बहुभिः अश्रुतमिति विषादस्य विषयः।


No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...