Saturday, August 6, 2022

सह्याद्रिव्याघ्रः धोण्डिया वाघः

कर्णाटके  ’मलेनाडु’ इति ख्याते सह्याद्रिपर्वतप्रदेशे शिवमोग्गा नाम जनपदः वर्तते । तत्र मराठाकुले समुत्पन्नः धोण्डिया वाघ नामकः वीरपुरुषः आङ्ग्लजनानां सिंहस्वप्नम् आसीत् । 


एषः आदौ हैदरालिसैन्ये सैनिकः आसीत् । पश्चात् ततः पलायनं कृत्वा स्वस्य एव लघु सैन्यं निर्मितवान् । मैसूरुसंस्थानेन आङ्ग्लेभ्यः वार्षिकसमर्पणार्थं अधिक: करसङ्ग्रहः आरब्धः। तदा धोण्डियावाघः तस्य विरोधम् अकरोत् । तदर्थं सः कृषकाणां सङ्घटनमपि कृतवान् ।

आरम्भे उत्तरकन्नडशिवमोग्गाजनपदयो: जनसङ्घटनं कृत्वा हैदराबादकर्णाटकप्रान्तपर्यन्तं विस्तारितवान् । आङ्लराज्यं निहन्तुं बद्धकटीन् जनान् एकत्र आनीय परशासनं विरुध्य दुन्दुभिनादमकरोत् ।


१७९९ तमे वर्षे तेन आङ्ग्लान् विरुध्य प्रत्यक्षं युद्धम् आरब्धम् । शिवमोग्गा क्षेत्रं आङ्ग्लमुक्तं कृत्वा सः स्वस्य आन्दोलनस्य केन्द्रम् अकरोत्। परितः विद्यमानाः क्षेत्रपालाः अपि तेन सम्मिलिताः। तस्य सैन्यं दिने दिने अवर्धत । सः लक्षशः सैनिकानां महतः सैन्यस्य नायकः अभवत्।


युद्धं कर्तुं युद्धसामग्रीणाम् आवश्यकता भवति किल! तदर्थं तेन उपायः कृतः।  वञ्चकाः आङ्ग्लाः तेषां मार्गेण एव वञ्चनीयाः इति निश्चयम् अकरोत् । एकस्मिन् दिने कैश्चित् सैनिकैः सह मैसूरुप्रान्तं गतवान् । तत्र आङ्ग्लानां शस्त्रागारः आसीत्। ततः शस्त्राणि चोरितवन्तः । एवं बहुवारं आवर्तितम्। गेरिल्ला नामके कूटयुद्धे परिणतानां तस्य सैनिकानां बन्धने आङ्ग्लाः विफलाः भवन्ति स्म । धोण्डिया स्वस्य पराक्रमेण स्वस्य क्षेत्रस्य विस्तारम् अकरोत् ।


आङ्ग्लनायकेन वेल्लेस्ली इत्यनेन तस्य बन्धनार्थमेव विशेषसैनिकगणः निर्मितः। एकदा आङ्ग्लाः तम् गवेषयन्तः शिकारिपुरनामके ग्रामे तस्य समीपमेव प्राप्ताः। सः तदा हुच्चरायस्वामिदेवालये आत्मानं गोपयित्वा प्राणरक्षणम् अकरोत्। स्वस्यरक्षणं कृतवते देवाय कृतज्ञतया स्वस्य खड्गमेव समर्पितवान्। इदानीमपि तस्मिन् देवालये सः खड्गः दृश्यते ।


कोयम्बत्तूरु, सेलम् इत्यादिक्षेत्रेभ्यः अपि कृषकाः तस्य साहाय्यार्थं समागताः। फ्रेञ्च् अधिकारिभिः सह विशेषसम्पर्कं सः साधितवान् आसीत् । स्वपराक्रमेण उत्तरकर्णाटकप्रदेशस्य विस्तृतभागम् आक्रान्तवान् । तस्य निग्रहार्थं महत् सैन्यमेव आङ्ग्लाधिकारिणा प्रेषितम् । 


१८००तमवर्षस्य सप्टेम्बर १० दिनाङ्के आङ्ग्लानां महती चमूः शिरहट्टि इति प्रदेशे तस्य बन्धनार्थम् आगता । धोण्डिया पराक्रमेण युद्धम् अकरोत् । आङ्ग्लानाम् अपारं सैन्यं युद्धे विनष्टम् । दोण्डियाव्याघ्रः बहुधा व्रणितः सन् अपि अनेकान् सैनिकान् अमारयत् । अन्ते सः वीरमरणं प्राप्तवान् ।


१८५७तमे वर्षे प्रथमस्वातन्त्र्यसङ्र्ग्रामः अभवत् इति वदन्ति । परन्तु तत्पूर्वमेव स्वस्य शौर्येण चातुर्येण च आङ्ग्लान् विरुद्ध्य घोरं युद्धं कृतवान् सह्याद्रिव्याघ्रः अवश्यं स्मरणीयः।


मूललेखकः(कन्नडभाषायाम्) - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु


✒️ महाबलभट्टः, गोवा

📱९८६००६०३७३

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...