Tuesday, August 16, 2022

क्रान्तिसिंहाः हलगलिव्याधाः

हलगलिः इति उत्तरकर्णाटकस्य कश्चनग्रामः। निबिडवनानां मध्ये विद्यमानेऽस्मिन् ग्रामे मृगान् मृगयित्वा उदरं निर्वहन्तः लुब्धकाः वसन्ति स्म।

१८५७ वर्षे प्रथमस्वातन्त्र्यसङ्ग्रामस्य दमनानन्तरं आङ्ग्लाः शासने इतोऽपि काठिन्यम् आनीतवन्तः। जनानां हस्ते यदि शस्त्रं भवति यदा कदा वा ते सर्वकारं विरुद्ध्य युद्धमारभेरन् इति चिन्तयित्वा निःशस्त्रीकरणनियमम् आनीतवन्तः। देशे सर्वेऽपि स्ववशे शस्त्रस्थापनात् निर्बद्धाः।

व्याधानाम् आजीविका तु मृगयया एव भवति। तदर्थं शस्त्रधारणम् अनिवार्यम्। अतः ते आङ्ग्लशासनं विरुद्ध्य आन्दोलनमारब्धवन्तः। आङ्ग्लाः तान् दमयितुं सर्वप्रयत्नान् आरब्धवन्तः।

एते लुब्धकाः सिंहसदृशाः शूराः आसन्। तेषां नियन्त्रणार्थं महती सेना एव आङ्ग्लैः प्रेषिता। मण्टूरु, बोधानि, अलगुण्डि इत्यादिभ्यः पार्श्वग्रामेभ्यः अपि व्याधाः आगत्य हलगलिग्रामे समाविष्टाः। तेषां ऐक्ययुद्धेन आङ्ग्लसेना पराजिता। 

क्रुद्धाः आङ्ग्लाः बेळगांवतः सैन्यम् आनीतवन्तः। कार् नामकः सेनापतिः हलिगलिग्रामं सर्वतः आक्रान्तवान्। घोरे युद्धे लुब्धकनायकः वीरस्वर्गं प्राप्तवान्। परन्तु अन्ये युद्धं न अत्यजन्। आङ्ग्लसेना पुनः पराजयमाप्नोत्। कुपितः कार् सम्पूर्णग्रामम् अग्निसात् कृतवान्। वीराः व्याधाः पलायनम् अकृत्वा आत्माहुतिम् अकुर्वन्।

अनेके लुब्धकाः आङ्ग्लैः गृहीताः। जनान् भाययितुं १८५८ जनवरी ११ दिनाङ्के २५ लुब्धकेभ्यः मुधोलग्रामस्य जनसम्मर्दविपण्यां पाशशिक्षा विधत्ता। 

अशिक्षितानां व्याधानां वीरगाथा इतोऽपि लोकगीतद्वारा गीयते कर्णाटकस्य विविधप्रान्तेषु। अनन्तरदिनेषु स्वातन्त्र्यसमरवीराणां प्रेरणास्थानमभवत् एतेषाम् आत्माहुतिः।

मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...