Tuesday, August 16, 2022

राष्ट्रगुरुः मदनमोहनमालवीयः

गान्धीमहोदयः राष्ट्रपिता इति ख्यातः। ’राष्ट्रगुरुः’ इति गौरवस्थानम् वहति पण्डितः मदनमोहनमालवीयमहाभागः।

२५ डिसेम्बर १८६१ दिनाङ्के प्रयागराजे प्राप्तजन्मनः मदनमोहनस्य माता मूनादेवी पिता पण्डितः ब्रजनाथः आसीत्। ब्रजनाथमहोदयः संस्कृतपन्डितः प्रख्यातः भागवतप्रवचनकारः च आसीत्। अतः मदनमोहनस्य धार्मिकशिक्षणं संस्कृताध्ययनञ्च सहजतया अभवताम्।

करुणा, भूतानुकम्पा, अद्वेष, धर्मश्रद्धा, देशभक्तिः, त्यागः, उत्साहः, आत्मविश्वासः, वाक्संयमः इत्यादिगुणैः अभिभूषित्तः मदनमोहनः ’महामनाः’ इत्युपाधिं प्राप्तवान्। सः स्वातन्त्र्यसेनानीः, कविः, चिन्तकः, शिक्षणवेत्ता, मौढ्यविरोधी, जातिभावनारहितः, पत्रकारः, विद्यादाता, सङ्घटकः च आसीत्।

मालवीयवर्यस्य कार्येषु मुकुटप्रायं ’बनारस-हिन्दू-विश्वविद्यालयस्य स्थापनम्’। आङ्ग्लैः स्थापिताः कलकत्ता-मुम्बयी-मद्रास्-विश्वविद्यालयाः आङ्ग्लपद्धतिमेव अनुसृत्य दास्यभावमेव वर्धयन्तः आसन्। आङ्ग्लशिक्षणप्राप्तिः, तेषाम् आचारविचाराणाम् अनुसरणम्, संस्कृतेः अनुकरणं च व्यक्तित्वस्य भूषणमिति मन्यमानाः भारतीयविद्यानां विषये निरासक्तिं हीनभावनां च धृतवन्तः अवर्तन्त।

एतस्य हीनचिन्तनस्य निरसनार्थं भारतीयसंस्कृतेः महत्त्वज्ञापनाय च तेन ’बनारस-हिन्दू-विश्वविद्यालस्य सङ्क्ल्पना कृता। स्वस्य लक्ष्यपूर्तये काश्मीरात् कन्याकुमारीपर्यन्तम् भिक्षाम् अटित्वा धनसङ्ग्रहमकरोत्। एककोटि-चतुस्त्रिंशत्सहस्ररूप्यकाणां सङ्ग्रहः अभवत्। मालवीयमहोदयः ’भिक्षुकसाम्राट्’ इति ख्यातिम् अवाप्तवान्।

१९१६ वर्षे बनारसहिन्दूविश्वाविद्यालयः स्थापितः। शतवर्षाणाम् अनन्तरमपि संस्कृत-हिन्दीभाषाध्ययने भारतीयज्ञानपरम्परायाः अनुसन्धाने च एतस्य विश्वविद्यालयस्य पात्रं महत्त्वपूर्णम्।

मदनमोहनमालवीयः अखिलभारतीयकाङ्ग्रेसदलद्वारा स्वातन्त्र्यसङ्ग्रामे भागमवहत्। गान्धीमहोदयः यदा कारागृहे आसीत् तदा आन्दोलनस्यचैतन्यरक्षणं कर्तुं सर्वत्र प्रवासमकरोत्। काकोरीचौर्यप्रकरणानन्तरं गान्धिवर्येण आन्दोलनं स्थगितम् आसीत्। तत् मदनमोहनाय न अरोचत। काङ्ग्रेसदलस्य अनेकान् निर्णयान् मालवीयमहोदयः न अङ्गीकृतवान्।

स्वातन्त्र्यसङ्ग्रामे समाजोद्धारकानां पात्रं महत्त्वपूर्णम्। समाजस्य अनिष्टान् वारयित्वा अस्मत्समाजस्य ऐक्यं रक्षितुं प्रयत्नः तैः कृतः। मदनमोहनमालवीयः अपि

तदर्थमेव विशिष्टः दृश्यते।

१९४६ वर्षे मालवीयवर्यः स्वर्गस्थः अभवत्। २०१४ वर्षे तस्मै मरणोत्तरं भारतरत्नपुरस्कारः प्रदत्तः। नूनं भारतस्य रत्नमिदम्। नमस्तस्मै महात्मने।

मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...