Friday, August 12, 2022

पराक्रमी सद्गुरुः रामसिंहकूका

 भारतस्वातन्त्र्यसङ्ग्रामे सिक्खमतावलम्बिनां योगदानम् अन्यादृशम्। अप्रतिमदेशभक्तास्ते। इदानीमपि भारतीयसैन्ये ’सिक्ख रेजिमेण्ट्’ परमपराक्रमिणां चमूः। सिक्खस्वातन्त्र्यवीरेषु सद्गुरुः रामसिंहकूकावर्यः अन्यतमः।

रामसिंहः ३ फेब्रुवरी १८१६ दिनाङ्के लुधियानायां तक्षककुले जातः। तस्य माता सदा कौर; पिता जस्सा सिंहः। बाल्ये तक्षकविद्यां किञ्चित् अधीत्य तत्कार्ये कृषिकार्ये च पितुः साहाय्यम् अकरोत्। अनन्तरं रणजित् सिंहस्य सैन्यं प्रविष्टः।

सिक्खसमुदाये बाल्यविवाहादीनि अनेकानि अनिष्टकर्माणि प्रचलितानि आसन्। आङ्ग्लाः तदुपयुज्य जनानां मतान्तरणे मग्नाः आसन्। एतत्सर्वं दृष्ट्वा रामसिंहः जनानाम् आध्यात्मस्तरोन्नयनाय, धार्मिक-सामाजिक-राजकीयविषयेषु जनानां जागृतये च ’नामधारी’ अथवा ’कूका’ सम्प्रदायस्य आरम्भं कृतवान्। तस्य विचारेभ्यः आकृष्टचित्ताः सहस्रशः जनाः तस्य अनुयायिनः समभवन्। पञ्जाबप्रान्तस्य २१ जनपदेषु कूकाजनानां कार्यविस्तारः जातः। 

सद्गुरुः रामसिंहः स्वनिशितवाण्या आङ्लानां कुशासनं अनिन्दत्। तस्य वाणी दास्ये पतितान् जनान् अजागरयत्। सद्गुरुः काश्मीरनेपालराज्याभ्यां सह मैत्रीं सम्पादितवान्। रष्यादेशमपि तस्य दूताः अगच्छन्। 

१८७१ वर्षे कूकासेनायाः सैनिकसङ्ख्या ४३०००० अभवत्। पञ्जाबराज्ये सर्वत्र तेषां कार्यं प्रसृतम्। तैः कृता क्रान्तिः कूकाविद्रोहः इति प्रसिद्धः। 

१८७२ वर्षे कूकासेनायाः आङ्ग्लसैनिकैः सह युद्धं घटितम्। तत्र अनेके कूका सैनिकाः मृताः। आङ्ग्लाः वञ्चनेन रामसिंहस्य बन्धने सफलाः जाताः। तस्मै बर्मादेशस्य माण्डले कारागारे उग्रशिक्षा प्रदत्ता। तस्य ६८ सैनिकाः अपि गृहीताः। तेषु ५० जनाः भुशुण्ड्या मारिताः। १८ जनाः कण्ठबन्धनदण्डनं प्राप्तवन्तः। २९ नवम्बर १८८५ दिनाङ्के सद्गुरुः परमात्मनि लीनः जातः। 

गोरक्षणं, स्वदेशीजागरणम्, महिलोद्धारः, अन्तर्जातीयविवाहः इत्यादीनि महान्ति कार्याणि सद्गुरुणा कृतानि। अन्धश्रद्धानिवारणार्थमपि तेन प्रयासः कृतः। तस्य क्रान्तिकथा कूकावीराणां वीरगाथा च पञ्जाबप्रान्तस्य लोकगीतेषु विराजन्ते।

२०१६ वर्षे भारतसर्वकारेण सद्गुरोः रामसिंहस्य द्विशततमः जन्मोत्सवः समाचरितः।  


मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  


No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...