Friday, August 12, 2022

तरुणवीरः खुदिरामः

खुदिरामः नवदशवर्षाणां तारुण्यावस्थायां मरणदण्डनं प्राप्तवान् तरुणवीरः। तस्य जन्म बङ्गालस्य कायस्थपरिवारे ३ डिसेम्बर १८८९ दिनाङ्के अभवत्। माता लक्ष्मीप्रिया, पिता त्रैलोक्यनाथ बोस्।

नवमकक्ष्यापर्यन्तं तेन विद्यालये पठितम्। परन्तु तस्य शरीरे प्रवहन्ती राष्ट्रभक्तिः स्वतन्त्रतान्दोलने तं न्ययोजयत्। 

१९०६ वर्षे मिदनापुरे प्रवृत्तायां एकस्यां कृषिप्रदर्शिन्यां बङ्गालस्य क्रान्तिकारिणा खुदिराम बोस महोदयेन लिखितं पत्रकं व्यतरत्। तदा आरक्षकैः बद्धः। परं कथमपि सः बन्धमुक्तः भूत्वा पलायितः। १९०७ वर्षे तेन नारायणगढ रेलस्थानके बङ्गालस्य गवर्नर् उपरि आक्रमणं कृतम्। १९०८ वर्षेऽपि द्वयोः आङ्ग्लाधिकारिणोः उपरि आक्रमणं कृतम्। परन्तु कोऽपि मृतः नाभवत्।

१९०५ वर्षे यदा वङ्गविभजनं कृतं तदा वङ्गयुवकैः महत् आन्दोलनं कृतम्। तादृशयुवकानां कृते किङ्ग्स् फोर्ड् नामकः न्यायाधिशः क्रूरां शिक्षां दत्तवान्। अतः तस्य उपरि सर्वेषां देशप्रेमिणां आक्रोशः आसीत्।

युगान्तरसमित्याः गुप्तमेलने किङ्ग्स् फोर्ड् इत्यस्य वधः करणीयः इति निर्णयः कृतः। प्रफुल्लकुमारः खुदिरामः च तस्य दायित्वम् अवहताम्। एकस्यां रात्रौ किङ्ग्स फोर्ड् यानमिति मत्वा खुदिरामेण बलवान् विस्फोटकः क्षिप्तः। परन्तु तत्तु अन्येषां यानमासीत्। न्यायाधीशस्य प्राणाः रक्षिताः। 

खुदिरामः २४ मैल दूरं धावित्वा क्रान्तवान्। परन्तु आरक्षकाः तस्य ग्रहणे सफलाः अभवन्। ११ अगस्त १९०८ दिनाङ्के भगवद्गीतां हस्ते गृहीत्वा हसन् एव मरणदण्डनं स्वीकृतवान्। 

खुदिरामः विस्फोटप्रयोगं कृतवान् प्रथमः भारतीयक्रान्तिकारी। तस्य कार्येण आङ्ग्लसाम्राज्यं कम्पितम्। अनेकयोजनपर्यन्तं विस्फोटस्य शब्दः प्रसृतः। परिणामः तु लण्डन पर्यन्तमपि गतः। आङ्ग्लानां दर्पः प्रकम्पितः। तेषां हृदये भयम् उत्पन्नम्। क्रान्तिकारिणां विश्वरूपदर्शनम् अभवत्।

आगामि गुरुवासरे तस्य बलिदानदिनम्। अवश्यं तस्मै अश्रुतर्पणं अर्पयामः।


मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...