Sunday, August 18, 2019

बाधति-बाधते

📄 _संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

*संस्कृतप्रपञ्चस्य रसप्रसङ्गाः।*

🌺पुष्पम् - १५

*बाधति-बाधते*

दूरदेशात् कश्चन पण्डितवरः धारानगरं समासादयत्। तस्य शिबिका आस्थानपण्डितैरेव वहनीयेति सः राजानमब्रवीत्। भूपतिस्तु बहुश्रुतकीर्तेः मनीषिणः मनीषां पूरयितुं सभापण्डितान् न्यवेदयत्।

शैत्यकारणात् पण्डितानाम् अभ्यासाभावाच्च तैः उह्यमाना दोला इतस्ततः दोलायमाना सञ्जाता। तेन रुष्टः पण्डितः 'शैत्यं बाधति किम्?' इत्यपृच्छत्।

तदा स्कन्धन्यस्तशिबिकः कालिदासः पण्डितमगदत् - ' न तथा बाधते शैत्यं यथा बाधति बाधते' इति।

बाध् धातुः आत्मनेपदी। तस्य प्रथमपुरुषैकवचनरूपं तु 'बाधते' इति न तु बाधति। विचक्षणः कालिदासः स्वस्य दोषज्ञत्वं सम्यगेव प्रादर्शयत्।

भग्नगर्वः सुधीः शिबिकायाः अवतीर्य कविकुलगुरुं प्रणम्य सर्वैः सह पद्भ्यामेव राजभवनं ययौ।

✍🏻 *महाबलभट्टः, गोवा*
📱9860060373

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...