Sunday, August 18, 2019

मोदकैस्ताडय

_संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

*संस्कृतप्रपञ्चस्य रसप्रसङ्गाः।*

           🌹 पुष्पम् - १४

      सातवाहनराजः कदाचित् स्वमहिषीभिः सह जलक्रीडार्थं नदीमगच्छत्। क्रीडावसरे तेन बलात् राज्ञीनामुपरि बहुधा जलसेचनमकारि। नितरां पीडिताः राज्ञ्यः तं 'मोदकैस्ताडय, मोदकैस्ताडय' इत्यूचुः।

       राज्ञीनां मोदाय राजाज्ञया प्रासादात् मोदकाः आनीताः। महाराजः तैः मोदकैः राज्ञीः ताडयितुमारभत। राज्ञ्यः तस्य मूर्खतामुच्चैः उपाहसन्।

        महाराज्ञी अभणत् 'आर्यपुत्र! मोदकैस्ताडय इत्युक्ते मा उदकैः ताडय इत्यर्थः' इति।

        अवमनितः राजा संस्कृतं शिक्षितुकामः विद्वन्मण्डल्यां स्वमनोरथं न्यवेदयत्। सभामण्डितः गुणाढ्यः नाम विद्वान् तदर्थं षड्वर्षाणि  अपेक्ष्यन्ते इत्यब्रवीत्।

        सभायाम् उपस्थितः कातन्त्रव्याकरणप्रणेता शर्ववर्मा नाम बुधः 'षण्मासेषु राजानं संस्कृतकोविदं कर्तुं प्रभवामि' इत्यभणत्। गुणाढ्यः तदशक्यमिति वादमकरोत्।

        तयोर्मध्ये स्पर्धा प्रवृत्ता। 'यदि शर्ववर्मा तत्कार्ये सफलः भवति तर्हि अहं संस्कृतादिप्रसिद्धभाषासु न लेखिष्यामि इति गुणाढ्यः प्रतिज्ञामकरोत्।

         शर्ववर्मणः कौशल्येन स्वस्य श्रद्धाप्राबल्येन च महाराजः षण्मासेषु पाण्डित्यं समपादयत्।

         पन्थे पराजितः गुणाढ्यः विन्ध्याटवीमासाद्य पैशाचभाषायां सप्तलक्षपद्ययुतं 'बृहत्कथा' नामकम् ग्रन्थं विरचय्य राज्ञः समीपं प्रैषयत्।

         भूपतिः तस्य ग्रन्थस्य विषये उपेक्षाभावं प्रादर्शयत्। तस्माद्विषण्णहृदयः गुणाढ्यः अटवीवासिनां पुरतः स्वकाव्यं पठित्वा एकमेकं पत्रं अग्नौ क्षेप्तुमारभत।

        ग्रन्थस्य महत्ता कर्णाकर्णि राजानं प्राप्नोत्। यावद् महाराजः गुणाढ्यसमीपं प्राधावत् तावता एकलक्षपद्यान्येवावशिष्टान्यासन्। नृपतिः गुणाढ्यमादृत्य अवशिष्टमरक्षत्।

       तदनन्तरं क्षेमेन्द्रनामा कविः गुणाढ्यस्य ग्रन्थं संस्कृतभाषया अनूद्य 'बृहत्कथामञ्जरी' नाम ग्रन्थमरचयत्।

        सोमदेवकृते कथासरित्सागरे कथेयं वर्णिता।

 (विकिपीडियातः सङ्ग्रहीतेयं कथा)

✍🏻 *महाबलभट्टः, गोवा*
📱 9860060373

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...