Sunday, August 18, 2019

सर्वशुक्ला सरस्वती

_संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

*संस्कृतप्रपञ्चस्य रसप्रसङ्गाः*

🌷पुष्पम् - १६

*सर्वशुक्ला सरस्वती*
कर्णाटकस्य चालुक्यान्वयचक्रवर्तिनः इम्मडि पुलकेशिवर्यस्य स्नुषा विजयांबिका अथवा विज्जिका संस्कृतकवयित्रीषु अग्रगण्या वर्तते । तस्याः 'कौमुदीमहोत्सवः' नाम नाटकं भागशः उपलब्धमस्ति ।

विज्जिकायाः स्वपाण्डित्यविषये अतीव अभिमानमासीत् । तां कदाचित् ’भवत्याः दृष्ट्या उत्तमाः कवयः के?’ इति कोऽपि अपृच्छत् ।

तदा सा अवदत् –
*एकोऽभून्नलिनात्ततश्च पुलिनाद्वल्मीकतश्चापरः*
*ते सर्वे भवन्ति कवयस्तेभ्यो नमस्कुर्महे ।*
*अर्वाञ्चो यदिगद्यपद्यरचनैश्चेष्टाञ्च मत्कुर्वते*
*तेषां मूर्ध्नि दधामि वामचरणं कर्णाटराजप्रिया ।*

कमलजातः ब्रह्मा, सिकते जातः व्यासः, वल्मीकभवः वाल्मीकिः एते एव कवयः। अन्यो नवीनः कोऽपि काव्यरचनां कृत्वा आत्मानं कवि मन्यते चेत् तस्य शिरसि मम वामपादं स्थापयिष्ये इति उद्घोषितवती ।
एषा स्वाभिमानस्य पराकाष्ठता वा दुरभिमानः वा न जानीमः।

गद्यकविचक्रवर्तीति ख्यातः दण्डी स्वस्य काव्यादर्शनामकस्य लक्षणग्रन्थस्य मङ्गलाचरणम् एवमकरोत् –

*चतुर्मुखमुखाम्भोज*
*-वनहंसवधूर्मम ।*
*मानसे रमतां नित्यं*
*सर्वशुक्लासरस्वती ॥*

सरस्वतीं सर्वशुक्लां वर्णितां विज्ञाय विजयभाट्टारिका एवमभणत् –

*नीलोत्पलदलश्यामां*
*विज्जिकां मां अजानता ।*
*वृथैव दण्डिना प्रोक्तं*
 *सर्वशुक्ला सरस्वती |।*

’अहं तु कृष्णकाया । सरस्वती शुभ्रकाया इति दण्डिना उक्तं व्यर्थमेव’ इति कथयन्त्याः आत्माभिमानः अन्यादृशः एव।

✍🏻 *महाबलभट्टः, गोवा*
📱 9860060373

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...