Friday, August 12, 2022

हिन्दू-मुस्लिम्-बान्धव्यस्य अप्रतिमम् उदाहरणम् रामप्रसादबिस्मिल्ला अशफाकुल्हा च ।

भारतस्वातन्त्र्यसङ्ग्रामस्य इतिहासे रामप्रसादबिस्मिल्ला अशफाकुल्हा एतयोः विशिष्टः अध्यायः एव वर्तते। हिन्दू-मुस्लिम् भ्रातृत्वस्य अप्रतिमम् अपूर्वञ्च उदाहरणं एतयोः मित्रत्वम्। एतयोर्मध्ये मतीयसङ्घर्षं जनयितुम् आङ्ग्लैः बहुधा प्रयत्नः विहितः। परन्तु पाशस्तम्भारोहणपर्यन्तमपि तौ एकीभावेन अतिष्ठताम्। स्वमतस्य अनुसरणेन सहैव राष्ट्रनिष्ठां पालयितुं शक्यते इति ताभ्यां सम्यक् निरूपितम्।

अशफाकुल्हा २२ अक्टोबर १९०० दिनाङ्के शहजानपुरे एकस्मिन् श्रीमति पठानकुले जातः। तस्य पिता शफिकुल्हा खान् ; माता मजरुन्निसा। अष्फाकस्य कुटुम्बः सुशिक्षितः आसीत्। एषोऽपि अभियान्त्रिकशिक्षणम् अवाप्तवान्।

रामप्रसादबिस्मिल्ला अपि शहाजहानपुरे ११ जून् १८९७ दिनाङ्के जन्म प्राप्तवान्। तस्य पिता मुरलीधरः, माता मूलमती। पितरौ रामभक्तौ आस्ताम्। रामप्रसादस्य पुस्तकपठने महती रुचिः आसीत्। यद्यपि किशोरावस्थायां धनचौर्यं, धूमपानम् इत्यादिदुर्व्यसनानि तम् अपीडयन् तथापि प्रौढावस्थायां सज्जनसङ्गेन तेभ्यः मुक्तः भूत्वा सुदृढः, कर्मनिष्ठः, धार्मिकप्रज्ञायुक्तः समभवत्।

रामप्रसादः आर्यसमाजस्य सदस्यः भूत्वा दयानन्दसरस्वतीमहाभागस्य उपदेशानुसारं स्वधर्मस्य पालनं करोति स्म। अशफाकुल्हा खुरानग्रन्थस्य गभीरम् अध्ययनं कृत्वा मुस्लिम् धर्माचरणे बद्धश्रद्धः आसीत्।

उभावपि काकोरीकोशापहरणप्रसङ्गे प्रमुखं पात्रम् ऊढवन्तौ। मारकास्त्रप्राप्त्यर्थं क्रान्तिकारिणां धनस्य आवश्यकता आसीत्। कण्टकं कण्टकेनैव निवारणीयमिति न्यायेन तैः आङ्ग्लानां अधिकोशाः चोरिताः। दशजनैः काकोरी रेलनिस्थानके रेलयानेन नीयमाना धनपेटिका चोरिता। 

काकोरीधनकोशचौर्यं स्वतन्त्रतासङ्ग्रामे कश्चन महाप्रसङ्गः। तदा तल्लग्नेषु कोऽपि न गृहीतः। परन्तु अनन्तरकाले रामप्रसादः तत्र मुक्यपात्रमवहत् इति ज्ञात्वा आरक्षकैः सः बद्धः। अनतिकाले अशफाकुल्हा अपि बद्धः।

उभावपि कारावाससमयेऽपि स्वधर्माचरणं न त्यक्तवन्तौ। रामप्रसादः होमहवनादिकं करोति स्म। अशफाकः पञ्चवारं नमाज करोति स्म। रमजानमासस्य कठोराचरणमपि करोति स्म। तथापि द्वयोर्मध्ये गाढः सोदरभावः आसीत्। 

न्यायालये एतत् प्रकरणं गम्भीरवादविवादैः चर्चितम्। अन्ततो गत्वा द्वयोः कृतेऽपि मरणदण्डनं विहितम्।

१९ डिसेम्बर १९२७ दिनाङ्के गोरखपुरकारावासे उभावपि पाशशिक्षां प्राप्तवन्तौ। मिलित्वा हसन्तौ एव शिक्षां स्वीकृतवन्तौ।

उभयोरपि अन्यः सामान्यकुशलता आसीत्। द्वावपि उत्तमकवी आस्ताम्। अशफाकः उर्दुभाषायां कविताः रचितवान्। रामप्रसादोऽपि उर्दूभाषाविशारदः आसीत्। तेन दशाधिकपुस्तकानि लिखितानि। अशफाकस्य एका शाहिरी एवं वदति - ’जीवनं मरणञ्च मिथ्या इति कृष्णः अर्जुनं बोधितवान् किल? क्व यातं तत् ज्ञानम्? मरणन्तु कथमपि आयाति। किमर्थं वा बिभयाम तदर्थम्? देशस्य भविष्यम् उज्ज्वलं स्वतन्त्रञ्च भवतु। अस्माकं किं महत्त्वम्? वयं भवेम, वा न भवेम।’

उभावपि सप्रणामश्रद्धाञ्जलिः।


मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...