Sunday, August 18, 2019

गङ्गा ममाङ्गान्यमलीकरोतु

*📜संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला✍*

*📚संस्कृतप्रपञ्चस्य रसप्रसङ्गाः📖*

 🌼 *पुष्पम् - १२*

  *गङ्गा ममाङ्गान्यमलीकरोतु...*
       पण्डितराजजगन्नाथस्य राजनिष्ठा पूर्णतया शिथिला अभवत् । षाहजहानस्य पुत्रः औरङ्गजेबः स्वस्य ज्येष्ठभ्रातरं हत्वा पितरं कारागृहे न्यक्षिपत् । यवनीं परिणीतवन्तं जगन्नाथं शिष्टसमाजः नाङ्ग्यकरोत् । निर्गतिकः पण्डितराजः वाराणसीम् आगतवान् ।
वाराणस्यां बहुदिनपर्यन्तं महती वृष्टिरभवत् । देवनदी उग्रा सम्भूता । स्नानार्थं उपगतवतीं लवङ्गीं कवलितवती भागीरथी । जगन्नाथस्य एकमेव आलम्बनमपि च्युतमभूत् ।
प्रियतमायाः वियोगेन, नीचजनसेवायाः पश्चात्तापेन च जर्झरितहृदयः जगन्नाथः व्यग्रः भूत्वा स्नानघट्टे उपाविशत् । आकाशे वज्रनिर्घोषः, नद्यां महोर्मीणाम् उद्घोषः, जगन्नाथस्य हृदये भावनातरङ्गाणां महाघोषः । क्षणे क्षणे उद्गच्छन्ती मन्दाकिनी जगन्नाथस्य हृदयमस्पृशत् । ततः उद्गता गङ्गालहरीति ख्याता स्तोत्रमालिका ।
        यथा यथा जगन्नाथः स्तोत्रस्य एकैकां पङ्क्तिम् उच्चारयत् तथा तथा  विष्णुपदोद्भवा एकैकशः सोपानम् आरुह्य उपरि आगता। यदा नद्याः स्पर्शः सञ्जातः अन्तिमं पद्यमिदं पण्डितराजमुखात् निसृता ।

*विभूषितानङ्गरिपूत्तमाङ्गा*
*सद्यःकृतानेकजनार्तिभङ्गा ।*
*मनोहरोत्तुङ्गजलत्तरङ्गा*
*गङ्गा ममाङ्गान्यमलीकरोतु ॥*

(कामारेः शिरः अलङ्कुर्वाणा अनेकजनानां कष्टं हृतवती, मनोहरजलतरङ्गयुक्ता गङ्गा मम अङ्गानि पवित्रीकरोतु।) जगन्नाथस्य प्रार्थनां श्रुतवती इव उपरि आगता स्वर्णदी जगन्नाथं स्वप्रवाहे लीनमकरोत् ।
विहायसि सूर्योदयः जातः। भुवि पण्डितसूर्यः अस्तङ्गतः ।
रसगङ्गाधरः, भामिनीविलासः, पञ्चलहरीग्रन्थाः इत्यादिमहाकृतयः तन्नाम बहुश्रुतमकार्षुः।

✍🏻 *महाबलभट्टः, गोवा*
📱9860060373

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...