Sunday, August 18, 2019

सहस्रशीर्षा पुरुषः

_संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

*संस्कृत साहित्य प्रपञ्चस्य रसप्रसङ्गाः।*

🌻पुष्पम् - ११

एषा अन्यस्य कस्यचित् पण्डितपुत्रस्य कथा। कश्चन ब्राह्मणः एकदा भोजसभां प्रविष्टः। नमस्कुर्वते नृपतये स्वस्ति वक्तुकामः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् इति पुरुषसूक्तस्य पङ्क्तिमेकाम् उदगिरत्। अग्रे किं करणीयमिति अज्ञात्वा मूढ इव अतिष्ठत्।

सभास्थितः कालिदासः सत्वरं तस्य साहाय्यार्थमधावत्। पद्यस्य द्वितीयार्धं समपूरयत्।

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।
चलितश्चकितश्छन्नः तव सैन्ये प्रधावति।।

'हे राजन्! तव सैन्यं यदा अधावत् तदा सहस्रशीर्षा शेषः चलितः, सहस्राक्षः इन्द्रः चकितोऽभूत्, सहस्रपात् सूर्यः (धूल्या) आच्छादितः अभवत्" इति तात्पर्यम्।

भोजः शिरः कम्पयन् ब्राह्मणस्य अकिञ्चनत्वं दूरीचकार।

✍🏻 *महाबलभट्टः, गोवा*

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...