Sunday, August 4, 2019

क ख ग घ

🌺पुष्पम् - ३

भोजराजस्य सभायां विदुषां सर्वदा सादरं स्वागतमासीत्। एकदा कश्चन पण्डितः दूरदेशात् भोजसभां समागतः। सः क ख ग घ इति अक्षरचतुष्टयं पादार्धं कृत्वा पद्यरचनाय पन्थाह्वानमदात्। भोजराजस्य नवमणयोऽपि तथा कर्तुं असमर्थाः गतप्रभाः समभवन्। कालिदासोऽपि निष्प्रतिभ इव अधोवदनः सञ्जातः। भोजराजस्तु परेद्यवि उत्तरकथनाय पण्डितस्य अनुमतिं प्राप्नोत्।

सभाविसर्जनानन्तरं कविकुलगुरुः अवनतदृष्टिः मार्गे प्राचलत्। तस्य मस्तिष्कं कखगघ इत्यक्षराणि कृमिवत् पीडयन्ति स्म। मध्येमार्गं सः काञ्चित् चटुलां बालिकां ददर्श। तस्याः मुखकान्त्या आकृष्टचित्तः कालिदासः ताम् मृदुलभाषया अभाषत। एवमासीत् तयोः संल्लापः-

कालिदासः - का त्वं बाले?
बालाः- काञ्चनमाला।
कालिदासः- कस्याः पुत्री?
बालाः- कनकलतायाः
कालिदासः- हस्ते किं ते?
बालाः- तालीपत्रम्।
कालिदासः- का वा रेखा?
बालाः- कः ख ग घ ।

सहस्रं विद्युद्दीपाः ज्वालिताः इव तेजोमयमभूत् कालिदासस्य आननम्। तेन अन्विष्यमाणा भेषजलता पादयोर्लग्ना इव नितरां प्रहृष्य तयोरालापः एव पद्यरूपेण परिवर्तितः।

का त्वं बाले? काञ्चनमाला
कस्याः पुत्री? कनकलतायाः।
हस्ते किं ते? तालीपत्रम्
का वा रेखा? कः ख ग घ ।।

अनितरसाधारणः खलु कविकुलगुरोः प्रतिभाविलासः! अत एव उच्यते 'कालिदासो विशिष्यते' इति।

✍🏻 महाबलभट्टः, गोवा

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...