Wednesday, August 7, 2019

कवयामि वयामि यामि

📃 _संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

        *संस्कृतप्रपञ्चस्य रसप्रसङ्गाः*

               🌹  *पुष्पम् - ७*

        भोजराजः सभायां विराजमानः अस्ति। नववमणयोऽपि उचितासने मण्डिताः सन्ति। तदा दूरदेशात् कश्चन पण्डितः तत्र समागतः। तस्य पाण्डित्येन सन्तुष्टहृदयः महाराजः तस्य वासार्थं गृहमेकमन्वेष्टुं सेवकान् आज्ञापयत्।

        नगरे सर्वत्र भ्रान्त्वा समागताः भटाः 'कुत्रापि रिक्तं गृहं नास्ति' इति न्यवेदयन्। तदा भूपतिः "यस्मिन् गृहे अविद्यावन्तः वसन्ति, तस्मात् गृहात् जनान् निष्कास्य तत्र पण्डितस्य वासव्यवस्थां कल्पयन्तु" इत्यादिदेश।

         राजपुरुषाः पुनरपि तादृशगेहस्य प्राप्तौ विफलाः सञ्जाताः। तदा नृपतिः "यस्मिन् गृहे काव्यरचनासामर्थ्यहीनाः निवसन्ति तद्गृहं रिक्तीकृत्य तत्र सः सुधीः वासनीयः" इत्यादिष्टवान्।

        तादृशं गृहम् अन्विष्यन्तः राजभृत्याः कस्यचित् कुविन्दस्य गृहं प्राप्तवन्तः। तन्तुवयने मग्नः तन्तुवायः राजभटान् दृष्ट्वा भयग्रस्तः समभवत्।

        "त्वं काव्यनिर्माणे क्षमः किम्?" भटः कुविन्दम् अपृच्छत्। कुविन्दस्तु प्रश्नस्याशयमजानन् "कुतः तन्तुवयनं, कुतः काव्यरचनम्?" इत्यवदत्। "तर्हि चल राजसभाम्" इत्युक्त्वा राजपुरुषाः तं बलात् आस्थानमानयन्।

         "भोः! तन्तुवाय किं कावयरचनां न जानासि" इति पृष्टवति भोजराजे कुविन्दः आशु पद्यमेकं विरचय्य अगायत्।

*काव्यं करोमि न हि चारुतरं करोमि*
*यत्नात्करोमि यदि चारुतरं करोमि ।*
*भूपालमौलिमणिमण्डितपादपीठ!*
*हे साहसाङ्क! कवयामि वयामि यामि।।*

         कवितायाः सौन्दर्येण तत्रापि अन्तिमपादस्य शब्दचित्रेण प्रसन्नहृदयः भोजः तं कुविन्दं सत्कृत्य पण्डिताय नूतनसदननिर्माणाय आदिशत्।

          सामान्यः कुविन्दोऽपि काव्यरचनाकुशलः अवर्तत भोजराजे राज्यं पालयति सति!

✍🏻 *महाबलभट्टः, गोवा*

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...